|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.98. अध्यायः 098
Mahabharata - Adi Parva - Chapter Topics
शकुन्तलायाः स्वपाणिग्रहणमनङ्कीकुर्वता दुष्यन्तेन सह विवादः॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
एवमुक्ता वरारोहा व्रीडितेव मनस्विनी।
विसंज्ञेव च दुःखेन तस्थौ स्थूणेव निश्चला॥ 1-98-1(4277)
संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसंपुटा।
कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत॥ 1-98-2(4278)
आकारं गूहमाना च मन्युना च समीरितम्।
तपसा संभृतं तेजो धारयामास वै तदा॥ 1-98-3(4279)
सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता।
भर्तारमभिसंप्रेक्ष्य यथान्यायं वचोऽब्रवीत्॥ 1-98-4(4280)
जानन्नपि महाराज कस्मादेवं प्रभाषसे।
न जानामीति निःशङ्कं यथान्यः प्राकृतस्तथा॥ 1-98-5(4281)
तस्य ते हृदयं वेद सत्यस्यैवानृतस्य च।
साक्षिणं बत कल्याणमात्मानमवमन्यसे॥ 1-98-6(4282)
योऽन्यथा सन्तमात्मानन्यथा प्रतिपद्यते।
किं तेन न कृतं पापं चोरेणात्मापहारिणा॥ 1-98-7(4283)
एकोऽहमस्मीति च मन्यसे त्वं
न हृच्छयं वेत्सि मुनिं पुराणम्।
यो वेदिता कर्मणः पापकस्य
तस्यान्तिके त्वं वृजिनं करोषि॥ 1-98-8(4284)
`धर्म एव हि साधूनां सर्वेषां हितकारणम्।
नित्यं मिथ्याविहीनानां न च दुःखावहो भवेत्'॥ 1-98-9(4285)
मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति।
विदन्ति चैनं देवाश्च यश्चैवान्तरपूरुषः॥ 1-98-10(4286)
आदित्यचन्द्रावनिलोऽनलश्च
द्यौर्भूमिरापो हृदयं यमश्च।
अहश्च रात्रिश्च उभे च सन्ध्ये
धर्मश्च जानाति नरस्य वृत्तम्॥ 1-98-11(4287)
यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम्।
हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति॥ 1-98-12(4288)
न तुष्यति च यस्यैष पुरुषस्य दुरात्मनः।
तं यमः पापकर्माणं निर्भर्त्सयति दुष्कृतम्॥ 1-98-13(4289)
योऽवमत्यात्मनात्मानमन्यथा प्रतिपद्यते।
न तस्य देवाः श्रेयांसो यस्यात्मापि न कारणम्॥ 1-98-14(4290)
स्वयं प्राप्तेति मामेवं मावमंस्था पतिव्रताम्।
अर्चार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम्॥ 1-98-15(4291)
किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि।
नखल्वहमिदं शून्ये रौमि किं न शृणोषि मे॥ 1-98-16(4292)
यदि मे याचमानाया वचनं न करिष्यसि।
दुष्यन्त शतधा त्वद्य मूर्धा ते विफलिष्यति॥ 1-98-17(4293)
जायां पतिः संप्रविश्य यदस्यां जायते पुनः।
जायायास्तद्धि जायात्वं पौराणाः कवयो विदुः॥ 1-98-18(4294)
यदागमवतः पुंसस्तदपत्यं प्रजायते।
तत्तारयति संतत्या पूर्वप्रेतान्पितामहान्॥ 1-98-19(4295)
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः।
तस्मात्पुत्र इति प्रोक्तः पूर्वमेव स्वयंभुवा॥ 1-98-20(4296)
`पुत्रेण लोकाञ्जयन्ति पौत्रेणानन्त्यमश्नुते।
अथ पौत्रस्य पुत्रेण मोदन्ते प्रपितामहाः॥' 1-98-21(4297)
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती।
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता॥ 1-98-22(4298)
अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा।
भार्या मूलं त्रिवर्गस्य यः सभार्यः स बन्धुमान्॥ 1-98-23(4299)
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः।
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियावृताः॥ 1-98-24(4300)
सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः।
पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः॥ 1-98-25(4301)
कान्तारेष्वपि विश्रामो जनस्याध्वनि कस्य वै।
यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः। 1-98-26(4302)
संसरन्तमभिप्रेतं विषमेष्वेकपातिनम्।
भार्यैवान्वेति भर्तारं सततं या पतिव्रता॥ 1-98-27(4303)
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते।
पूर्वप्रेतं तु भर्तारं पश्चात्साप्यनुगच्छति॥ 1-98-28(4304)
एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते।
यदाप्नोति पतिर्भार्यामिह लोके परत्र च॥ 1-98-29(4305)
`पोषणार्थं शरीरस्य पाथेयं स्वर्गतस्य वै।'
आत्माऽऽत्मनैव जनितः पुत्र इत्युच्यते बुधैः॥ 1-98-30(4306)
तस्माद्भार्यां पतिः पश्येन्मातृवत्पुत्रमातरम्।
`अन्तरात्मैव सर्वस्य पुत्रो नामोच्यते सदा॥ 1-98-31(4307)
गती रूपं च चेष्टा च आवर्ता लक्षणानि च।
पितॄणां यानि दृश्यन्ते पुत्राणां सन्ति तानि च॥ 1-98-32(4308)
तेषां शीलगुणाचारास्तत्संपर्काच्छुभाशुभात्।'
भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम्॥ 1-98-33(4309)
जनिता मोदते प्रेक्ष्य स्वर्गं प्राप्येव पुण्यकृत्।
`पतिव्रतारूपधराः परबीजस्य संग्रहात्॥ 1-98-34(4310)
कुलं विनाश्य भर्तॄणां नरकं यान्ति दारुणम्।
परेण जनिताः पुत्राः स्वभार्यायां यथेष्टतः॥ 1-98-35(4311)
मम पुत्रा इति मतास्ते पुत्रा अपि शत्रवः।
द्विषन्ति प्रतिकुर्वन्ति न ते वचनंकारिणः॥ 1-98-36(4312)
द्वेष्टि तांश्च पिता चापि स्वबीजे न तथा नृप।
न द्वेष्टि पितरं पुत्रो जनितारमथापि वा॥ 1-98-37(4313)
न द्वेष्टि जनिता पुत्रं तस्मादात्मा सुतो भवेत्।'
दह्यमाना मनोदुःखैर्व्याधिभिस्तुमुलैर्जनः॥ 1-98-38(4314)
ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव।
`विप्रवासकृशा दीना नरा मलिनवाससः॥ 1-98-39(4315)
तेऽपि स्वदारांस्तुष्यन्ति दरिद्रा धनलाभवत्।'
अप्रियोक्तोपि दाराणां न ब्रूयादप्रियं बुधः॥ 1-98-40(4316)
रतिं प्रीतिं च धर्मं च तदायत्तमवेक्ष्य च।
`आत्मनोऽर्धमिति श्रौतं सा रक्षति धनं प्रजाः॥ 1-98-41(4317)
शरीरं लोकयात्रां वै धर्मं स्वर्गमृषीन्पितॄन्।'
आत्मनो जन्मनः क्षेत्रं पुण्या रामाः सनातनाः॥ 1-98-42(4318)
ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजा-।
`देवानामपि का शक्तिः कर्तुं संभवमात्मनः॥ 1-98-43(4319)
पण्डितस्यापि लोकेषु स्त्रीषु सृष्टिः प्रतिष्ठिता।
ऋषिभ्यो ह्यृषयः केचिच्चण्डालीष्वपि जज्ञिरे'॥ 1-98-44(4320)
परिसृत्य यथा सूनुर्धरणीरेणुकुण्ठितः।
पितुरालिङ्गतेऽङ्गानि किमस्त्यभ्यधिकं ततः॥ 1-98-45(4321)
स त्वं सूनुमनुप्राप्तं साभिलाषं मनस्विनम्।
प्रेक्षमाणं कटाक्षेण किमर्थमवमन्यसे॥ 1-98-46(4322)
अण्डानि बिभ्रति स्वानि न त्यजन्ति पिपीलिकाः।
किं पुनस्त्वं न मन्येथाः सर्वथा पुत्रमीदृशम्॥ 1-98-47(4323)
न भरेथाः कथं नु त्वं मयि जातं स्वमात्मजम्।
`ममाण्डानीति वर्ध्ते कोकिलाण्डानि वायसाः॥ 1-98-48(4324)
किं पुनस्त्वं न मन्येथाः सर्वज्ञः पुत्रमीदृशम्।
मलयाच्चन्दनं जातमतिशीतं वदन्ति वै॥ 1-98-49(4325)
शिशोरालिङ्गनं तस्माच्चन्दनादधिकं भवेत्।'
न वाससां न रामाणां नापां स्पर्शस्तथाविधः॥ 1-98-50(4326)
शिशुनालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः।
पुत्रस्पर्शात्प्रियतरः स्पर्शो लोके न विद्यते॥ 1-98-51(4327)
स्पृशतु त्वां समालिङ्ग्य पुत्रोऽयं प्रियदर्शनः।
ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्॥ 1-98-52(4328)
मुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः॥
त्रिषु वर्षेषु पूर्णेषु प्रजातोऽयमरिन्दमः॥ 1-98-53(4329)
`अद्यायं मन्नियोगात्तु तवाह्वानं प्रतीक्षते।
कुमारो राजशार्दूल तव शोकप्रणाशनः॥' 1-98-54(4330)
आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरवः।
`राजसूयादिकानन्यान्क्रतूनमितदक्षिणान्॥ 1-98-55(4331)
इति गौरन्तरिक्षे मां सूतके ह्यवदत्पुरा।
हन्त स्वमङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः॥ 1-98-56(4332)
मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः।
वेदेष्वपि वदन्तीमं मन्त्रग्रामं द्विजातयः॥ 1-98-57(4333)
जातकर्मणि पुत्राणां तवापि विदितं ध्रुवम्।
अङ्गादङ्गात्संभवसि हृदयादधिजायसे॥ 1-98-58(4334)
आत्मा वै पुत्रनामासि स जीव शरदः शतम्।
उपजिघ्रन्ति पितरो मन्त्रेणानेन मूर्धनि॥ 1-98-59(4335)
पोषणं त्वदधीनं मे सन्तानमपि चाक्षयम्।
तस्मात्त्वं जीव मे पुत्र स सुखी शरदां शतम्॥ 1-98-60(4336)
एको भूत्वा द्विधा भूत इति वादः प्रवर्तते।
त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषः परः॥ 1-98-61(4337)
सरसीवामलेऽऽत्मानं द्वितीयं पश्य ते सुतम्।
`सरसीवामले सोमं प्रेक्षात्मानं त्वमात्मनि'॥ 1-98-62(4338)
यथाचाहवनीयोऽग्निर्वर्हपत्यात्प्रणीयते।
एवं त्वत्तः प्रणीतोऽयं त्वमेकः सन्द्विधा कृतः॥ 1-98-63(4339)
मृगापकृष्टेन हि वै मृगयां परिधावता।
अहमासादिता राजन्कुमारी पितुराश्रमे॥ 1-98-64(4340)
उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका।
विश्वाची च घृताची च षडेवाप्सरसां वराः॥ 1-98-65(4341)
तासां वै मेनका नाम ब्रह्मयोनिर्वराप्सराः।
दिवः संप्राप्य जगतीं विश्वामित्रादजीजनत्॥ 1-98-66(4342)
`श्रीमानृषिर्धर्मपरो वैश्वानर इवापरः।
ब्रह्मयोनिः कुशो नाम विश्वामित्रपितामहः॥ 1-98-67(4343)
कुशस्य पुत्रो बलवान्कुशनाभश्च धार्मिकः।
गाधिस्तस्य सुतो राजन्विश्वामित्रस्तु गाधिजः॥ 1-98-68(4344)
एवंविधो मम पिता मेनका जननी वरा।'
सा मां हिमवतः पृष्ठे सुषुवे मेनकाऽप्सराः॥ 1-98-69(4345)
परित्यज्य च मां याता परात्मजमिवासती।
`पक्षिणः पुम्यवन्तस्ते सहिता धर्मतस्तदा॥ 1-98-70(4346)
पक्षैस्तैरभिगुप्ता च तस्मादस्मि शकुन्तला।
ततोऽहमृषिणा दृष्टा काश्यपेन महात्मना॥ 1-98-71(4347)
जलार्थमग्निहोत्रस्य गतं दृष्ट्वा तु पक्षिणः।
न्यासभूतामिव मुनेः प्रददुर्मां दयावतः॥ 1-98-72(4348)
कण्वस्त्वालोक्य मां प्रीतो हसन्तीति हविर्भुजः।
स माऽरणिमिवादाय स्वमाश्रममुपागमत्॥ 1-98-73(4349)
सा वै संभाविता राजन्ननुक्रोशान्महर्षिणा।
तेनैव स्वसुतेवाहं राजन्वै वरवर्णिनी॥ 1-98-74(4350)
विश्वामित्रसुता चाहं वर्धिता मुनिना नृप।
यौवने वर्तमानां च दृष्टवानसि मां नृप॥ 1-98-75(4351)
आश्रमे पर्णशालायां कुमारीं विजने तदा।
धात्रा प्रचोदितां शून्ये पित्रा विरहितां मिथः॥ 1-98-76(4352)
वाग्भिस्त्वं सूनृताभिर्मामपत्यार्थमचूचुदः।
अकार्षीस्त्वाश्रमे वासं धर्मकामार्थनिश्चितम्॥ 1-98-77(4353)
गान्धर्वेण विवाहेन विधिना पाणिमग्रहीः।
साऽहं कुलं च शीलं च सत्यवादित्वमात्मनः॥ 1-98-78(4354)
स्वधर्मं च पुरस्कृत्य त्वामद्य शरणं गता।
तस्मान्नर्हसि संश्रुत्य तथेति वितथं वचः॥ 1-98-79(4355)
स्वधर्मं पृष्ठतः कृत्वा परित्यक्तुमुपस्थिताम्।
त्वन्नाथां लोकनाथस्त्वं नार्हसि त्वमनागसम्'॥ 1-98-80(4356)
किं नु कर्माशुभं पूर्वं कृतवत्यस्मि पार्थिव।
यदहं बान्धवैस्त्यक्ता बाल्ये संप्रति वै त्वया॥ 1-98-81(4357)
कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम्।
इमं बालं तु संत्युक्तं नार्हस्यात्मजमात्मना॥ 1-98-82(4358)
दुष्यन्त उवाच। 1-98-83x(618)
न पुत्रमभिजानामि त्वयि जातं शकुन्तले।
असत्वचना नार्यः कस्ते श्रद्धास्यते वचः॥ 1-98-83(4359)
`अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे।
विशेषतो मत्सकाशे दुष्टतापसि गम्यताम्'॥ 1-98-84(4360)
क्व महर्षिस्तपस्युग्रः क्वाप्सराः सा च मेनका।
क्व च त्वमेवं कृपणा तापसीवेषधारिणी॥ 1-98-85(4361)
अतिकायश्च पुत्रस्ते बालोऽतिबलवानयम्।
कथमल्पेन कालेन सालस्कन्ध इवोद्गतः॥ 1-98-86(4362)
सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे।
यदृच्छया कामरागाज्जाता मेनकया ह्यसि॥ 1-98-87(4363)
सर्वमेव परोक्षं मे यत्त्वं वदसि तापसि।
`सर्वा वामाः स्त्रियो लोके सर्वाः कामपरायणाः॥ 1-98-88(4364)
सर्वाः स्त्रियः परवशाः सर्वाः क्रोधसमाकुलाः।
असत्योक्ताः स्त्रियः सर्वा न कण्वं वक्तुमर्हसि'॥ 1-98-89(4365)
मेनका निरनुक्रोशा वर्धकी जननी तव।
यया हिमवतः पादे निर्माल्यवदुपेक्षिता॥ 1-98-90(4366)
स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव।
विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः॥ 1-98-91(4367)
सुषाव सुरनारी मां विश्वामित्राद्यथेष्टतः।
अहो जानामि ते जन्म कुत्सितं कुलटे जनैः॥ 1-98-92(4368)
मेनकाऽप्सरसां श्रेष्ठा महर्षिश्चापि ते पिता।
तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिभाषसे॥ 1-98-93(4369)
जातिश्चापि निकृष्टो ते कुलीनेति विजल्पसे।
जनयित्वा त्वमुत्सृष्टा कोकिलेन परैर्भृता॥ 1-98-94(4370)
अरिष्टैरिव दुर्बद्धिः कण्वो वर्धयिता पिता।
अश्रद्धेयमिदं वाक्यं यत्त्वं जल्पसि तापसि॥ 1-98-95(4371)
ब्रुवन्ती राजसान्निध्ये गम्यतां यत्र चेच्छसि।
`सुवर्णमणिमुक्तानि वस्त्राण्याभरणानि च॥ 1-98-96(4372)
यदिहेच्छसि भोगार्थं तापसि प्रतिगृह्यताम्।
नाहं त्वां द्रष्टुमिच्छामि यथेष्टं गम्यतामितः'॥ ॥ 1-98-97(4373)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टनवतितमोऽध्यायः॥ 98 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|